।। नवग्रह स्तोत्रम् ।।
जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् ।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि
दिवाकरम् ।।१।।
दघिशंखतुषाराभं क्षीरोदार्णवसम्भवम् । नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ।।२।।
धरणीगर्भसम्भूतं विद्युतकान्तिसमप्रभम् । कुमारं शक्ति हस्तं तं मंगलं
प्रणमाम्यहम् ।।३ ।।
प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं
बुधं प्रणमाम्यहम् ।।४ ।।
देवानां च ऋषीणां च गुरुं कांचनसन्निभम् । बुद्धिभूतं त्रिलोकेशं तं नमामि
बृहस्पतिम् ।।५।।
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्र प्रवक्तारं भार्गवं
प्रणामाम्यहम् ।।६।।
नीलांजनसमाभासं रविपुत्रं
यमाग्रजम् । छायामार्तण्ड़सम्भूतं तं नमामि शनैश्चरम् ।।७ ।।
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् । सिंहिकागर्भसम्भूतं तं राहुं
प्रणमाम्यहम् ।।८ ।।
पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् । रौद्रं रौद्रात्मकं घोरं तं केतु
प्रणमाम्यहम् ।।९ ।।
इति व्यासमुखोन्दीतं यः पठेत्सुसमाहितः | दिवा वा यदि वा रात्रौ विध्नशान्तिर्भविष्यति ।।१० ।।
नरनारीनृपाणां च भवेद्दुःस्वप्नाशनम् | ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्द्धनम् ।।११ ।।
।। इति श्री वेद व्यास विरचितं नवग्रह स्तोत्रं सम्पूर्णम् ।।
No comments:
Post a Comment